(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - कर्णपर्व


॥ श्रीः ॥
8.62. अध्यायः 062
Mahabharata - Karna Parva - Chapter Topics
कृष्णेनार्जुनम्प्रति युधिष्ठिरस्य कर्णेन पराभवकथनपूर्वकं कर्णयुद्धप्रदर्शनम्॥ 1 ॥ तथा भीमसेनयुद्धप्रदर्शनम्॥ 2 ॥


Mahabharata - Karna Parva - Chapter Text

श्रीभगवानुवाच। 8-62-0x(4985)(58023)
आतुरो मे मतो राजा अविपह्यश्च भारत।
यथैनमनुवर्तन्ते पञ्चालाः सह पाण्डवैः॥ 8-62-1(58024)
त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः।
मज्जन्तमिव पाताले बलिनो ह्युज्जिहीर्षवः॥ 8-62-2(58025)
न केतुर्दृश्यते राज्ञः कर्णस्य पिहितः शरैः।
पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः॥ 8-62-3(58026)
धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो।
पाञ्चालानां च सर्वेषां चेदीनां चैव भारत॥ 8-62-4(58027)
एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम्।
शरैर्विध्वंसयामास नलिनीमिव कुञ्जरः॥ 8-62-5(58028)
एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन।
पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः॥ 8-62-6(58029)
एते भारत मातङ्गाः कर्णेनाभिहताः शरैः।
आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश॥ 8-62-7(58030)
रथानां द्रवते वृन्दमेतच्चैव समन्ततः।
द्राव्यमाणं रणे पार्थ कर्णेनामिततेजसा॥ 8-62-8(58031)
हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्रतत्र ह।
रथस्थं सूतपुत्रस्य केतुं केतुमतां वर॥ 8-62-9(58032)
असौ धावति राधेयो भीमसेनरथं प्रति।
किरञ्शरशतान्येव विनिघ्नंस्तव वाहिनीम्॥ 8-62-10(58033)
एते नश्यन्ति पाञ्चाला द्राव्यमाणा महात्मना।
शक्रेणेव यथा दैत्या द्राव्यमाणा महात्मना॥ 8-62-11(58034)
एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान्।
दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः॥ 8-62-12(58035)
एष कर्णो धनुःश्रेष्ठं विधून्वन्बहुशोभते।
शत्रुं जित्वा यथा शक्रो देवसङ्खैः समावृतः॥ 8-62-13(58036)
एते नर्दन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम्।
त्रासयन्तो रणे पाण्डून्सृंजयांश्च समन्ततः॥ 8-62-14(58037)
एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे।
अभिभाषति राधेयः सर्वसैन्यानि मानद॥ 8-62-15(58038)
अभिद्रवत भद्रं वो द्रुतं द्रवत कौरवाः।
यथा न जीववान्कश्चिन्मुच्येत युधि सृञ्जयः॥ 8-62-16(58039)
तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः।
एवमुक्त्वा गतो ह्येष पृष्ठतो विकिरञ्छरान्॥ 8-62-17(58040)
पश्य कर्णं रणे पार्थ श्वेतच्छत्रविराजितम्।
उदयं पर्वतं यद्वच्छशाङ्केनाभिशोभितम्॥ 8-62-18(58041)
पूर्णचन्द्रनिकाशेन मूर्ध्नि च्छत्रेण भारत।
ध्रियमाणेन समरे श्रीमच्छतशलाकिना॥ 8-62-19(58042)
एष त्वां प्रेक्षते कर्णः सकटाक्षं धनञ्जय।
उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे॥ 8-62-20(58043)
पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः।
शरांश्चाशीविषाकारान्विसृजन्तं महारणे॥ 8-62-21(58044)
असौ निवृत्तो राधेयो दृष्ट्वा ते वानरध्वजम्।
प्रार्थयन्समरं पार्थ त्वया सह परन्तप।
वधाय ह्यात्मनोऽभ्येति पावकं शलभो यथा॥ 8-62-22(58045)
कर्णमेकाकिनं दृष्ट्वा धार्तराष्ट्रो रणाजिरे।
त्वां च पार्थाभिसंरब्धं कर्णं प्रति महारथम्॥ 8-62-23(58046)
कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे।
अत्मानं च कृतार्थं च समीक्ष्य भरतर्षभ॥ 8-62-24(58047)
असौ दुर्योधनः क्रुद्धो रथानीकेन भारत।
रिरक्षिषुः सुसंवृत्तो धार्तराष्ट्रो निवर्तते॥ 8-62-25(58048)
सर्वैः सहैभिर्दुष्टात्मा बध्यतां च प्रयत्नतः।
त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता॥ 8-62-26(58049)
अदीनयोर्विश्रुतयोर्युवयोर्योत्स्यमानयोः।
देवासुरे पार्थ मृधे देवदानवयोरिव।
पश्यन्तु कौरवाः सर्वे तव पार्थ पराक्रमम्॥ 8-62-27(58050)
त्वां च दृष्ट्वातिसंरब्धं कर्णं च भरतर्षम्।
असौ दुर्योधनः क्रुद्धो नोत्तरं प्रतिपद्यते॥ 8-62-28(58051)
आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ।
कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे॥ 8-62-29(58052)
प्रतिपद्यस्व कौन्तेय प्राप्तकालमनन्तरम्।
आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम्॥ 8-62-30(58053)
पञ्च ह्येतानि मुख्यानि रथानां रथसत्तम।
शतान्यxxxxxxजलिनां तिन्मतेजसाम्॥ 8-62-31(58054)
पञ्च नाघxxxxx द्विगुणा वाजिनस्तथा।
अभिसंहत्य कौन्तेय पदाताः प्रयुतानि च॥ 8-62-32(58055)
xxxxxxxx वीर बलं तामभिवर्तते।
द्रोमपुत्रं पुरस्कृत्य तच्छीघ्रं सन्निषूदय॥ 8-62-33(58056)
निकृत्त्यैतद्रथानीकं बलिनं लोकविश्रुतम्।
सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना॥ 8-62-34(58057)
xxxxxxxxxxxxxxxभरतर्षभ।
xxxxxxxxxxxxx पाञ्चालानभिघावति। 8-62-35(58058)
xxxxxx हि पश्यामि धृष्टद्युम्नरर्थ प्रति।
xxxxxx पाञ्चालानिति मन्ये परन्तप॥ 8-62-36(58059)
आचचक्षे प्रियं पार्थ तवेदं भरतर्षभ।
राजासौ कुशली श्रीमान्धर्मपुत्रो युधिष्ठिरः॥ 8-62-37(58060)
असौ भीमो महाबाहुः सन्निवृत्तश्चमूयुखे।
वृतः सृञ्जय सैन्येन शैनेयेन च भप्तत॥ 8-62-38(58061)
वध्यन्त एते समरे कौरवा निशितैः शरैः।
भीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः॥ 8-62-39(58062)
सेना हि धार्तराष्ट्रस्य विमुखा व्यद्रवद्रणात्।
वेगेन भीमसेनस्य विहता विविधैः शरैः॥ 8-62-40(58063)
विपन्नसस्येव मही रुधिरेण समुक्षिता।
भारती भरतश्रेष्ठ सेना कृपणदर्शना॥ 8-62-41(58064)
निवृत्तं पश्य कौन्तेय भीमसेनं युधाम्पतिम्।
आशीविषमिव क्रुद्धं तस्माद्द्रवति भारति॥ 8-62-42(58065)
पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः।
पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन॥ 8-62-43(58066)
सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः।
केतवोऽभिनिपात्यन्ते हस्त्यश्वं च प्रकीर्यते॥ 8-62-44(58067)
रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः।
नानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः॥ 8-62-45(58068)
निर्मनुष्यान्गजानश्वान्रथांश्चैव धनञ्जय।
समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः॥ 8-62-46(58069)
विमृद्रन्ति नरव्याघ्रा भीमसेनबलाश्रयात्।
बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिन्दम्॥ 8-62-47(58070)
एते नर्दिन्ति पाञ्चाला ध्मापयन्ति च वारिजान्।
अभिद्रवन्ति च रणे मृद्रन्तः सायकैः परान्॥ 8-62-48(58071)
पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि पराक्रमात्।
धार्तराष्ट्रान्विनिघ्नन्तो विशन्त्येते रथोत्तमान्॥ 8-62-49(58072)
[शस्त्रमाच्छिद्य शत्रूणां सायुधानां निरायुधाः।
तेनैवैतानमोघास्त्रा निघ्नन्ति च नदन्ति च॥ 8-62-50(58073)
शिरांस्येतानि पात्यन्ते शत्रूणां बाहवोऽपि च।
रथनागहया वीरा यशस्याः सर्व एव च]॥ 8-62-51(58074)
सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः।
त्यक्त्वा प्राणान्महेष्वासैः पाञ्चालैः परिपात्यते॥ 8-62-52(58075)
सुहृदश्च पराक्रान्ताः कृपकर्णादयो विभो।
निवारणे महेष्वासाः पाञ्चालानां परन्तप॥ 8-62-53(58076)
अनिवृत्तांश्च भीतांस्तान्धार्तराष्ट्रान्परन्तप।
धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः॥ 8-62-54(58077)
रथाश्च विविधाः सर्वे निवृत्ते भरतर्षभे।
विवर्णमुखभूयिष्ठा धार्तराष्ट्री महाचमूः॥ 8-62-55(58078)
पश्य भीमेन नाराचैर्भिन्ना नागाः पतन्त्यमी।
वज्रिवज्रहतानीव शिखराणि धराभृताम्॥ 8-62-56(58079)
भीमसेनस्य निर्विद्धा बाणैः सन्नतपर्वभिः।
स्वान्यनीकानि मृद्गन्तो द्रवन्त्येते महागजाः॥ 8-62-57(58080)
`एते द्रवन्ति कुरवो भीमसेनभयार्दिताः।
त्यक्त्वा रथान्गजांश्चैव हयांश्चैव सहस्रशः॥ 8-62-58(58081)
हस्त्यश्वरथपत्तीनां द्रवतां निःस्वनं शृणु।
भीमसेनस्य निनदं द्रावयानस्य कौरवान्॥ 8-62-59(58082)
अभिजानामि भीमस्य सिंहनादं पुनःपुनः'।
नदतः पाण्डवेयस्य सङ्ग्रामे जितकाशिनः॥ 8-62-60(58083)
एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम्।
विसृजंस्तोमरान्क्रुद्धो दण्डपाणिरिवान्तकः॥ 8-62-61(58084)
तस्य चैव भुजौ छिन्नौ भीमसेनेन गर्जतः।
नागश्च क्रकरप्रख्यैर्नाराचैर्दशभिर्हतः॥ 8-62-62(58085)
हन्तैते पुनरायान्ति नागा ह्यन्ये प्रहारिणः।
नीलाञ्जनचयप्रख्या महामात्रैरधिष्ठिताः॥ 8-62-63(58086)
शक्तितोमरसङ्घतैर्विनिघ्नन्तो वृकोदरम्।
सप्तसप्त च नागस्था वैजयन्त्यश्च सध्वजाः।
नवत्या निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते॥ 8-62-64(58087)
दशभिर्दशभिश्चैको नाराचैर्निहतो गजः॥ 8-62-65(58088)
न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा।
पुरन्दरसमे क्रुद्धे निवृत्ते भरतर्षभे॥ 8-62-66(58089)
अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य सङ्गताः।
क्रुद्धेन भीमसेनेन नरसिंहेन वारिताः॥ 8-62-67(58090)
न शक्नुवन्ति वै पार्थं पार्थिवाः समुदीक्षितुम्।
मध्यन्दिनगतं सूर्यं यथा दुर्बलचक्षुषः॥ 8-62-68(58091)
एते भीमस्य सन्त्रस्ताः सिंहस्येवेतरे मृगाः।
शरैः सन्त्रासिताः सह्ख्ये न लभन्ते सुखं क्वचित्॥ 8-62-69(58092)
राधेयो बहुभिः सार्धमसौ गच्छति वेगितः।
वर्धयित्वा तु भीरुं तं पार्श्वतो ह्यानयद्धनुः।
तं पालयन्महाराजं धार्तराष्ट्रं बलान्वितः॥ 8-62-70(58093)
सञ्जय उवाच। 8-62-71x(4986)
एतच्छ्रुत्वा महाबाहुर्वासुदेवाद्धनञ्जयः।
भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम्।
अर्जुनो व्यधमच्छिष्टान्संशप्तकगणान्बहून्॥ 8-62-71(58094)
ते वध्यमानाः पार्थेन संशप्तकगणाः प्रभो।
शक्रस्यातिथितां गत्वा विशोका ह्यभवंस्तदा॥ 8-62-72(58095)
नारायणांस्तु गोपालान्व्यधमत्पाण्डुनन्दनः।
उत्तमं वेxxxxxप्तास्थाय चण्डवायुर्धनानिव॥ 8-62-73(58096)
अन्वकीर्यन्त भीतास्ते तत्रतत्रैव भारत।
लुलितांश्च ततः शूरानहनत्पुरुषोत्तमः॥ 8-62-74(58097)
पुनश्च पुरुषव्याघ्रः शरैः सन्नतपर्वभिः।
जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम्॥ ॥ 8-62-75(58098)

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विषष्टितमोऽध्यायः॥ 62 ॥

Mahabharata - Karna Parva - Chapter Footnotes
8-62-9 हस्तिकक्ष्यां केतुमिति सम्बन्धः॥ 8-62-19 छत्रेणोपलक्षितः॥ 8-62-34 द्रोणपुत्रे महेष्वासे इति क.ट.पाठः॥ 8-62-62 द्विषष्टितमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.